गणगीत
बोधयित्वा संघभावं नाशयित्वा हीनभावम् । नवशताब्यां कलियुगे ऽस्मिन् हिन्दुधर्मो विजयताम् ।। राष्ट्रभक्तिं सामरस्यं ‘दक्ष-सम्पत’ प्रार्थनाभिः, वर्धयित्वा स्वाभिमानम् पांचजन्यः – श्राव्यताम् । दीर्घतपसा पूर्णमनसा चारुवचसा वीरवृत्त्या । स्वार्थरहितं ज्ञानसहितं क्षात्रतेजो दर्थ्यताम् ।।
नवशताब्दे कलियुगाब्दे..
वेदवाणी राष्ट्रवाणी धर्मसंस्कृतिमूलगङ्गा, लोकभाषोज्जीवनार्थं संस्कृतेन हि भाष्यताम् । हिन्दुदर्शनजीवभूता संस्कृतिः खलु विश्वमान्या, भव्यभारत वैभवार्थं सा हि नित्यं सेव्यताम् ।।
नवशताब्दे कलियुगाब्दे..
ऐक्यभावं वर्धयित्वा भेदभावं वारयित्वा, मातृमन्दिर पूजनार्थं नित्यशाखा गम्यताम् । हिन्दुबान्धव स्नेहसहितं सर्वसाधक शक्तिरूपं ।। समय दौड़न विश्वमङ्गल शान्तिसुखदं हिन्दुराष्ट्र राजताम् ।।
नवशताब्दे कलि
गणगीत और अधिक जानकरीके लिया यहाँ क्लिक करेhttp://RSSSANG.OGL